|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.78. अध्यायः 078
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणादीनामापद्धर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-78-0x(6691)(80817)
व्याख्याता राजधर्मेण वृत्तिरापत्सु भारत।
कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा॥ 12-78-1(80818)
भीष्म उवाच। 12-78-2x(6692)
अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्।
कृषिं गोरक्ष्यमास्थाय व्यसने वृत्तिसंक्षये॥ 12-78-2(80819)
युधिष्ठिर उवाच। 12-78-3x(6693)
कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते।
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ॥ 12-78-3(80820)
भीष्म उवाच। 12-78-4x(6694)
सुरालवणमित्येतत्तिलान्केसरिणः पशून्।
वृषभान्मधु मांसं च कृतान्नं च युधिष्ठिर॥ 12-78-4(80821)
सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्।
एतेषां विक्रयात्तात ब्राह्मणो नरके पतेत्॥ 12-78-5(80822)
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्।
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन॥ 12-78-6(80823)
पक्वेनामस्य निमयं न प्रशंसन्ति साधवः।
निमयेत्पक्वमामेन भोजनार्थाय भारत॥ 12-78-7(80824)
वयं सिद्धमशिष्यामो भवान्साधयतामिदम्।
एवं संवीक्ष्य समयं नाधर्मोऽस्ति कथंचन॥ 12-78-8(80825)
अत्र ते वर्तयिष्यामि यथा कर्मः सनातनः।
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर॥ 12-78-9(80826)
भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु।
उचितो वर्तते धर्मो न बलात्संप्रवर्तते॥ 12-78-10(80827)
इत्येवं संप्रवर्तन्ते व्यवहाराः पुरातनः।
ऋषीणामितरेषां च साधु चैतदसंशयम्॥ 12-78-11(80828)
युधिष्ठिर उवाच। 12-78-12x(6695)
अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः।
व्युत्क्रमन्ते स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्॥ 12-78-12(80829)
तदा त्राता तु को नु स्यात्को धर्मः किं परायणम्।
एतं मे संशयं ब्रूहि विस्तरेण पितामह॥ 12-78-13(80830)
भीष्म उवाच। 12-78-14x(6696)
दानेन तपसा यज्ञैदद्रोहेण दमेन च।
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः॥ 12-78-14(80831)
तेषां ये वेदबलिनस्त उत्थाय समन्ततः।
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः॥ 12-78-15(80832)
राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्।
तस्माद्ब्राह्मबलेनैव समुत्थेयं विजानता॥ 12-78-16(80833)
यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसन्दधेत्।
तदा वर्णा यथाधर्मं निविशेयुः स्वकर्मसु॥ 12-78-17(80834)
उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते।
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर॥ 12-78-18(80835)
युधिष्ठिर उवाच। 12-78-19x(6697)
अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणं प्रति।
कस्तत्र ब्राह्मणांस्त्राता को धर्मः किं परायणम्॥ 12-78-19(80836)
भीष्म उवाच। 12-78-20x(6698)
तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च।
अमायया मायया च नियन्तव्यं तदा भवेत्॥ 12-78-20(80837)
क्षत्रियस्यातिवृत्तस्य ब्राह्मणेषु विशेषतः।
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम्॥ 12-78-21(80838)
अभ्द्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वस्वयोनिषु शाम्यति॥ 12-78-22(80839)
यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिहन्ति च।
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः॥ 12-78-23(80840)
तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर।
समुदीर्णान्यजेयानि तेजांसि च बलानि च॥ 12-78-24(80841)
युधिष्ठिर उवाच। 12-78-25x(6699)
ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले।
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति भारत॥ 12-78-25(80842)
ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः।
`ब्राह्मणान्परिरक्षन्ति तेषां लोका भवन्ति के॥ 12-78-26(80843)
भीष्म उवाच। 12-78-27x(6700)
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च।
मनस्विनो मन्युमन्तः पुण्याँल्लोकान्व्रजन्त्यमी।
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणभिष्यते॥ 12-78-27(80844)
अतिस्विष्टमधीतानां लोकानतितपस्विनाम्।
अनाशकाग्न्याहितानां शूरा यान्ति परां गतिम्॥ 12-78-28(80845)
ब्राह्मणस्त्रिषु वर्णेषु शस्त्रं गृह्णन्न दुष्यति।
एष एवात्मनस्त्यागो नान्यं धर्मं विदुर्जना॥ 12-78-29(80846)
तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति।
ब्रह्मद्विपो जिघांसन्तस्तेषां नोऽस्तु सलोकता॥ 12-78-30(80847)
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरव्रवीत्।
यथाऽश्वमेधावभृथे स्नाताः पूता भवन्त्युत।
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे॥ 12-78-31(80848)
भवत्यधर्मो धर्मो हि धर्मोऽधर्मो भवत्युत।
कारणाद्देशकालस्य देशः कालः स तादृशः॥ 12-78-32(80849)
मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्।
धर्म्याः पापानि कुर्वाणा गच्छन्ति परमां गतिम्॥ 12-78-33(80850)
ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति।
आत्मत्राणे दस्युदोषे सर्वस्वहरणे तथा॥ 12-78-34(80851)
युधिष्ठिर उवाच। 12-78-35x(6701)
अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसङ्करे।
संप्रमूढेषु वर्णेषु यदन्योऽभिभवेद्वली॥ 12-78-35(80852)
ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम।
दस्युभ्यो यः प्रजा रक्षेद्दण्डं धर्मेण धारयेत्॥ 12-78-36(80853)
भीष्म उवाच। 12-78-37x(6702)
कार्यं कुर्यान्न वा कुर्यात्स वार्यो वा भवेन्न वा।
न स्म शस्त्रं गृहीतव्यमन्यत्र क्षत्रबन्धुतः॥ 12-78-37(80854)
अपारे यो भवेत्पारमप्लवेः यः प्लवो भवेत्।
शूद्रो वा यदि वाऽप्यन्यः सर्वथा मानमर्हति॥ 12-78-38(80855)
यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम्।
अनाथास्तप्यमानाश्च दस्युभिः परिपीडिताः॥ 12-78-39(80856)
तमेव पूजयेयुस्ते प्रीत्या स्वमिव बान्धवम्।
यहद्ध्यभीष्टं कौरव्य कर्ता सन्मानमर्हति॥ 12-78-40(80857)
किमनडुहा यो न वहेत्किं धेन्वा वाऽप्यदुग्धया।
बन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाऽप्यरक्षता॥ 12-78-41(80858)
यथा दारुमयो हस्ती यथा चर्ममयो मृगः।
यथा ह्यदक्षः पुरुषः पथि क्षेत्रं यथोपरम्॥ 12-78-42(80859)
यथा विप्रोऽनधीयानो राजा यश्च न रक्षिता।
मेघो न वर्षते यश्च सर्व एव निरर्थकाः॥ 12-78-43(80860)
नित्यं यस्तु सतो रक्षेदसतश्च निवर्तयेत्।
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्॥ ॥ 12-78-44(80861)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टसप्ततितमोऽध्यायः॥ 78॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-78-4 केसरिणः अश्वान्। पशून्गोजाविमहिषादीन्। कृतान्नं पक्वमन्नम्॥ 12-78-6 विराट् अन्नम्॥ 12-78-7 पक्वेनामस्य विनिमये पक्वदो दुष्यति नत्वामद इत्यर्थः॥ 12-78-8 इदमप्यपवदति वयमिति। निमयम् इति झ. पाठः॥ 12-78-19 कस्तस्य ब्राह्मणस्त्रातेति झ. पाठः॥ 12-78-29 एवमेवात्मनस्त्यागान्नान्यं इति झ. पाठः॥ 12-78-30 नोऽस्माकम्॥ 12-78-33 मैत्रा उत्तङ्कपराशरादयः। क्रूराणि सर्पराक्षससत्रादीनि। धर्म्या धर्मादनपेताः क्षत्रियाः। पापानि परराष्ट्रावमर्दादीनि। अधर्मस्य धर्मत्वेन उदाहरणद्वयमुक्तम्। इदमेवाऽर्हिसाख्यधर्माश्रयेऽधर्मरूपमपि भवतीति ज्ञेयम्॥ 12-78-41 किं तैर्येऽनडुहो नोह्याः इति झ. पाठः॥ 12-78-42 यदाह्यनर्थः षण्ढो वा पार्थ क्षेत्रं इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|